गिर᳚श्च॒ यास्ते᳚ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि᳚ ।
स॒त्रा द᳚धि॒रे शवां᳚सि ॥
स॒त्रा द᳚धि॒रे शवां᳚सि ॥
पदपाठः (Word-by-word)
गिरः᳚ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य᳚म् । तानि᳚ ।
स॒त्रा । द॒धि॒रे॒ । शवां᳚सि ॥
स॒त्रा । द॒धि॒रे॒ । शवां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
हे गिर्वाहः गीर्भिःस्तुतिभिर्वहनीयेन्द्र ते तुभ्यं क्रियमाणाः गिरश्च स्तुतिरूपाश्च वाचोयाः सन्ति उक्थाच उक्थानिच शस्त्ररूपाणिच वचांसि तुभ्यं त्वदर्थं क्रियमाणानि यानि सन्ति तानि सर्वाणि सत्राहैव शवांसि बलानि दधिरे विदधिरे ॥ ३० ॥