हृ॒त्सु पी॒तासो᳚ युध्यन्ते दु॒र्मदा᳚सो॒ न सुरा᳚याम् ।
ऊध॒र्न न॒ग्ना ज᳚रन्ते ॥
ऊध॒र्न न॒ग्ना ज᳚रन्ते ॥
पदपाठः (Word-by-word)
हृ॒त्॑सु । पी॒तासः᳚ । यु॒ध्य॒न्ते॒ । दुः॒॑मदा᳚सः । न । सुरा᳚याम् ।
ऊधः᳚ । न । न॒ग्नाः । ज॒र॒न्ते॒ ॥
ऊधः᳚ । न । न॒ग्नाः । ज॒र॒न्ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र पीतासस्त्वयापीताः सोमाः हृत्सु हृदयेषु त्वदीयेषु युध्यन्ते परस्परं सम्प्रहारं कुर्वते तत्रदृष्टान्तः-सुरायां पीतायां जायमानाः दुर्मदासोन दुष्टमदाः यथा पातारं मादयन्ति तद्वत् त्वां मादयितुं परस्परं युध्यन्तइत्यर्थः अपिच नग्नाः छन्दांसि तानि न जहतीति नग्नाः स्तोतारः तेच ऊधर्न पयसा पूर्णं गवादेरूधइव सोमपूर्णं त्वां जरन्ते स्तुवन्ति जरतिः स्तुतिकर्मा ॥ १२ ॥