एह हरी᳚ ब्रह्म॒युजा᳚ श॒ग्मा व᳚क्षत॒ः सखा᳚यम् ।
गी॒र्भिः श्रु॒तं गिर्व᳚णसम् ॥
गी॒र्भिः श्रु॒तं गिर्व᳚णसम् ॥
पदपाठः (Word-by-word)
आ । इ॒ह । हरी॒ इति᳚ । ब्र॒ह्म॒॑युजा᳚ । श॒ग्मा । व॒क्ष॒तः॒ । सखा᳚यम् ।
गीः॒॑भिः । श्रु॒तम् । गिर्व᳚णसम् ॥
गीः॒॑भिः । श्रु॒तम् । गिर्व᳚णसम् ॥
सायणभाष्यम् (Sayana Commentary)
ब्रह्मयुजा अन्नवन्तौ शग्मा सुखप्रदौ हरी एतादृशौ अश्वौ युवां इहअस्मद्यज्ञे इन्द्रं आवक्षतः आवहतम् । कीदृशं इन्द्रं अस्मत्सखायं गीर्भिः अस्मत्कृतैः स्तोत्रैः श्रुतं प्रख्यातं गिर्वणसं गिरां संभक्तारम् ॥ २७ ॥