श्रवणम्

8.2.22
आ तू षि᳚ञ्च॒ कण्व᳚मन्तं॒ न घा᳚ विद्म शवसा॒नात् ।
य॒शस्त᳚रं श॒तमू᳚तेः ॥
▶ पदपाठः (Word-by-word)
आ । तु । सि॒ञ्च॒ । कण्व᳚॑मन्तम् । न । घ॒ । वि॒द्म॒ । श॒व॒सा॒नात् ।
य॒शः॑त᳚रम् । श॒तम्॑ऊ᳚तेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो कण्वमन्तं कणतिः शब्दकर्मा कण्वाः स्तोतारः यद्वा कण्वगोत्राऋषयः तैर्युक्तमिन्द्रमुद्दिश्य नु क्षिप्रं आसिञ्च सोमं जुहुधि । शवसानात् शवोबलं तदिवाचरतः अतिबलात् शतमूतेः शतं बहुनामैतत् बत्द्मऊतयोरक्षायस्मिन् सशतमूतिः तादृशादस्मादिन्द्रात् यशस्तरं यशस्वितरं पुरुषं नघ नैव विद्म जानीमः अतस्तमेवोद्दिश्य सोमं जुहुधीत्यर्थः ॥ २२ ॥