श्रवणम्

8.2.20
मो ष्व१॒᳚द्य दु॒र्हणा᳚वान्त्सा॒यं क᳚रदा॒रे अ॒स्मत् ।
अ॒श्री॒र इ᳚व॒ जामा᳚ता ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । अ॒द्य । दुः॒॑हना᳚वान् । सा॒यम् । क॒र॒त् । आ॒रे । अ॒स्मत् ।
अ॒श्री॒रः॑इ᳚व । जामा᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

दुर्हणावन् परैर्दुःसहहननं दुर्हणं तद्वान् इन्द्रः अद्येदानीं अस्मदारे अस्माकं समीपे आगच्छतु सु सुष्ठु अतिशयेन सायं दिवसस्यावसानं सायंकालं मोकरत् माकार्षीत् करोतेर्माङिलुङि कृमृदृरुहिभ्यइति च्लेरङादेशः । जामाता जायत इतिजा अपत्यं तस्यानिर्माता दुहि- तुः पतिः अश्रीरइव नश्रीरश्रीः तदस्यास्तीत्यश्रीरः मत्वर्थीयोरः गुणैर्विहीनः कुत्सितोजामाता समथा असकृदाहूयमानोपि आसायंकालं विलंबते तद्वत् त्वं कालविलंबं माकृथाइत्यर्थः ॥ २० ॥