उ॒क्थं च॒न श॒स्यमा᳚न॒मगो᳚र॒रिरा चि᳚केत ।
न गा᳚य॒त्रं गी॒यमा᳚नम् ॥
न गा᳚य॒त्रं गी॒यमा᳚नम् ॥
पदपाठः (Word-by-word)
उ॒क्थम् । च॒न । श॒स्यमा᳚नम् । अगोः᳚ । अ॒रिः । आ । चि॒के॒त॒ ।
न । गा॒य॒त्रम् । गी॒यमा᳚नम् ॥
न । गा॒य॒त्रम् । गी॒यमा᳚नम् ॥
सायणभाष्यम् (Sayana Commentary)
गायतेर्गोः अगोः अस्तोतुः अरिः शत्रुरिन्द्रः शस्यमानं होत्रापठ्यमानं उक्थं चन शस्त्रमपि आचिकेत अभिजानाति । कितज्ञाने छान्दसोलिट् नेतिसम्प्रत्यर्थे न सम्प्रति प्रस्तोत्रादिभिर्गीयमानं गायत्रं गातव्यं साम यद्वा गायत्राख्यं अपिचिकेतेत्येव अतःकारणात् वयमपि तमिन्द्रं स्तुमइत्यर्थः ॥ १४ ॥