श्रवणम्

8.2.16
व॒यमु᳚ त्वा त॒दिद᳚र्था॒ इन्द्र᳚ त्वा॒यन्त॒ः सखा᳚यः ।
कण्वा᳚ उ॒क्थेभि᳚र्जरन्ते ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ऊं॒ इति᳚ । त्वा॒ । त॒दित्॑अ᳚र्थाः । इन्द्र᳚ । त्वा॒॑यन्तः᳚ । सखा᳚यः ।
कण्वाः᳚ । उ॒क्थेभिः᳚ । ज॒र॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वायन्तः त्वामात्मनइच्छन्तः सखायः समानख्यानाः वयं तदिदर्थाःयत्तत्त्वद्विषयं स्तोत्रं तदित् तदेव अर्थः प्रयोजनं येषां तादृशाः सन्तः त्वा त्वां जरामहे स्तुमहे । उइति पूरणः कण्वाः कण्वगोत्रोत्पन्नाः अस्मदीयाः पुत्रादयश्च उक्थेभिरुक्थैः शस्त्रैर्जरन्ते त्वां स्तुवन्ति ॥ १६ ॥