श्रवणम्

8.2.33
यस्मि॒न्विश्वा᳚श्चर्ष॒णय᳚ उ॒त च्यौ॒त्ना ज्रयां᳚सि च ।
अनु॒ घेन्म॒न्दी म॒घोनः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । विश्वाः᳚ । च॒र्ष॒णयः᳚ । उ॒त । च्यौ॒त्ना । ज्रयां᳚सि । च॒ ।
अनु᳚ । घ॒ । इत् । म॒न्दी । म॒घोनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाः सर्वाः चर्षणयः प्रजाः यस्मिन्निन्द्रे वर्तन्ते यदधीनाभवन्ति उतापिच च्यौत्ना च्यौत्नानि बलनामैतत् प्रच्युतसाधनानि बलानिच ज्रयांसि शत्रुविषयाण्यभिभवनानि यस्मिन्निन्द्रे वर्तन्ते विज्रि अभिभवे इतिधातुः । सइन्द्रः मघोनः मघं हविर्लक्षणधनं तद्वतोयजमानान् अनुमन्दी अनुमोदकोभवति घेदितिपूरकौ यद्वा मन्दी स्तुत्यः सइन्द्रः तान् अनुगृह्णातीतिशेषः अथवा यस्य मघोनोधनवतइन्द्रस्य मन्दी स्तोतानुकूलोभवति एषएतानीत्युत्तरत्रैकवाक्यता ॥ ३३ ॥