श्रवणम्

8.2.39
य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒ः शची᳚वान् ।
ये अ᳚स्मि॒न्काम॒मश्रि᳚यन् ॥
▶ पदपाठः (Word-by-word)
यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्यः᳚ । दात् । सखा᳚ । नृ॑भ्यः᳚ । शची᳚॑वान् ।
ये । अ॒स्मि॒न् । काम᳚म् । अश्रि᳚यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पणिभिर्देवगवीष्वपहृतासु पदेभ्योगतानां गवां मार्गे संलग्नेभ्यः अन्वेषणसाधनभूतेभ्यः ऋतेचित् ऋतेपि विनापि सखा मित्रभूतः शची- वान् कर्मवान् प्रशस्तकर्मा यइन्द्रोनृभ्योनेतृभ्योदेवेभ्यः गाः पणिभिरपत्दृतादात् पुनर्दत्तवान् । येदेवाः अस्मिन्निन्द्रे कामं अभिलाषं अश्रियन् असेवन्त प्राप्नुवन् तेभ्योनृभ्यइत्यन्वयः तमिन्द्रं गातेति पूर्वेणसहैकवाक्यता ॥ ३९ ॥