श्रवणम्

8.2.38
गा॒थश्र᳚वसं॒ सत्प᳚तिं॒ श्रव᳚स्कामं पुरु॒त्मान᳚म् ।
कण्वा᳚सो गा॒त वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
गा॒थ॑श्र᳚वसम् । सत्॑प᳚तिम् । श्रवः᳚॑कामम् । पु॒रु॒॑त्मान᳚म् ।
कण्वा᳚सः । गा॒त । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कण्वासः कण्वपुत्राः मेधातिथयः पूर्ववद्बहुवचनमात्मनः संबोधनंच हे कण्वस्यपुत्राः मेधातिथयोयूयं गाथश्रवसं गातव्ययशसं सप्ततिं सतां पालयितारं श्रवस्कामं श्रवत्सु अन्नेषु हविष्षु कामोभिलाषोयस्य तादृशं पुरुत्मानं बह्वात्मानं यद्वा पुरुषु बहुषु प्रदेशेषु अतन्तं सततं गच्छन्तं वाजिनं वेगवन्तं एवं गुणकमिन्द्रं गात गायत स्तुध्वम् ॥ ३८ ॥