श्रवणम्

8.2.7
त्रय॒ इन्द्र᳚स्य॒ सोमा᳚ः सु॒तासः᳚ सन्तु दे॒वस्य᳚ ।
स्वे क्षये᳚ सुत॒पाव्न᳚ः ॥
▶ पदपाठः (Word-by-word)
त्रयः᳚ । इन्द्र᳚स्य । सोमाः᳚ । सु॒तासः᳚ । स॒न्तु॒ । दे॒वस्य᳚ ।
स्वे । क्षये᳚ । सु॒त॒॑पाव्नः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवस्य दानादिगुणयुक्तस्येन्द्रस्य पानार्थं त्रयः सवनत्रयरूपेण त्रिधा वर्तमानाः सोमाः स्वेक्षये स्वकीये यज्ञगृहे सुतासोभीषुताः सन्तु भवन्तु सुतपाव्नः हेतुगर्भविशेषणमेतत् यस्मादयमिन्द्रः अभिषुतस्यैव सोमस्य पाता तस्मादभिषुताः सन्त्वित्यर्थः ॥ ७ ॥