सनि᳚ता॒ विप्रो॒ अर्व᳚द्भि॒र्हन्ता᳚ वृ॒त्रं नृभि॒ः शूरः᳚ ।
स॒त्यो᳚॑वि॒ता वि॒धन्त᳚म् ॥
स॒त्यो᳚॑वि॒ता वि॒धन्त᳚म् ॥
पदपाठः (Word-by-word)
सनि᳚ता । विप्रः᳚ । अर्व᳚त्॑भिः । हन्ता᳚ । वृ॒त्रम् । नृ॑भिः᳚ । शूरः᳚ ।
स॒त्यः । अ॒वि॒ता । वि॒धन्त᳚म् ॥
स॒त्यः । अ॒वि॒ता । वि॒धन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
विप्रोमेधावी सइन्द्रः अर्वद्भिरश्वैः वाहनभूतैः सनिता गन्तव्यं संभक्ता तथा शूरः शौर्योपेतः सन् नृभिर्नेतृभिर्मरुद्भिः सार्धं वृत्रमावरकम- सुरं हन्ता साधुघाती अपिच विधन्तं परिचरन्तं यजमानः सत्यः साधुः अवितथस्वभावोवा सइन्द्रः अविता परिचरतोयजमानस्य रक्षिता भवति । सर्वविधीनां छन्दसिविकल्पितत्वादत्रकर्मणिषष्ठी न प्रवर्तते ॥ ३६ ॥