हन्ता᳚ वृ॒त्रं दक्षि᳚णे॒नेन्द्र᳚ः पु॒रू पु᳚रुहू॒तः ।
म॒हान्म॒हीभि॒ः शची᳚भिः ॥
म॒हान्म॒हीभि॒ः शची᳚भिः ॥
पदपाठः (Word-by-word)
हन्त᳚ । वृ॒त्रम् । दक्षि᳚णेन । इन्द्रः᳚ । पु॒रु । पु॒रु॒॑हू॒तः ।
म॒हान् । म॒हीभिः᳚ । शची᳚भिः ॥
म॒हान् । म॒हीभिः᳚ । शची᳚भिः ॥
सायणभाष्यम् (Sayana Commentary)
अथमिन्द्रोदक्षिणेन हस्तेन एकेनैव वृत्रमावरकमसुरं हन्ता साधु हतवान् हन्तेः साधुकारिणि तृन् नलोकाव्ययेति षष्ठीप्रतिषेधः । पुरु पुरुषु सुपांसुलुगिति विभक्तेर्लुक् बहुषु देशेषु पुरुहूतः बहुभिराहूतः महीभिर्महतीभिः शचीभिः क्रियाभिः शक्तिभिवां महान् सर्वेभ्यउ- त्कृष्टएवंभूतइन्द्रोस्मान् रक्षत्वित्यर्थः ॥ ३२ ॥