ज्येष्ठे᳚न सोत॒रिन्द्रा᳚य॒ सोमं᳚ वी॒राय᳚ श॒क्राय᳚ ।
भरा॒ पिब॒न्नर्या᳚य ॥
भरा॒ पिब॒न्नर्या᳚य ॥
पदपाठः (Word-by-word)
ज्येष्ठे᳚न । सो॒तः॒ । इन्द्रा᳚य । सोम᳚म् । वी॒राय᳚ । श॒क्राय᳚ ।
भर᳚ । पिब᳚त् । नर्या᳚य ॥
भर᳚ । पिब᳚त् । नर्या᳚य ॥
सायणभाष्यम् (Sayana Commentary)
हे सोतरभिषोतरध्वर्यो वीराय विक्रान्ताय शक्राय शक्तियुक्ताय नर्याय नृभ्योहितायेन्द्राय ज्येष्ठेन मुख्येन ऎन्द्रवयवग्रहेण सहि धाराग्र- हाणांमध्ये ज्येष्ठः तेन सोमं भर हर आहर वीर्यं प्रापय । सचेन्द्रः पिबत् तं सोमं पिबतु ॥ २३ ॥