श्रवणम्

8.2.31
ए॒वेदे॒ष तु᳚विकू॒र्मिर्वाजा{4}॒ एको॒ वज्र᳚हस्तः ।
स॒नादमृ᳚क्तो दयते ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । ए॒षः । तु॒वि॒॑कू॒र्मिः । वाजा᳚न् । एकः᳚ । वज्र᳚॑हस्तः ।
स॒नात् । अमृ᳚क्तः । द॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एष एवेन्द्रः तुविकूर्मिः बहुकर्मा इदितिपूरकः एकः सर्वेषु देवेषु मुख्यः वज्रहस्तोवज्रबाहुः सनात् चिरकालादारभ्य अमृक्तः शत्रुभिरबा- धितः एवंभूतः सइन्द्रः वाजानन्नानि बलानि वा दयते स्तोतृभ्योददाति ॥ ३१ ॥