श्रवणम्

8.2.41
शिक्षा᳚ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद᳚त् ।
अ॒ष्टा प॒रः स॒हस्रा᳚ ॥
▶ पदपाठः (Word-by-word)
शिक्ष᳚ । वि॒भि॒न्दो॒ इति᳚ वि॑भिन्दो । अ॒स्मै॒ । च॒त्वारि᳚ । अ॒युता᳚ । दद᳚त् ।
अ॒ष्ट । प॒रः । स॒हस्रा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विभिन्द्रुनाम्नोराज्ञः सकाशाद्बहुधनं लब्ध्वा तदीयं दानं इदमादिकेन द्वृचेन प्रशंसति हेविभिन्दोराजन् ददत् दाता त्वं अस्मै मह्यमृषये चत्वारि अयुता अयुतानि दशसहस्राणि चत्वारिंशत्सहस्राणि शिक्ष अशिक्षः दत्तवानसि परः परस्तात् ऊर्ध्वमपि अष्टसंख्याकानि सहस्रा सहस्राणि च दत्तवानसि ॥ ४१ ॥