रे॒वा{4} इद्रे॒वतः᳚ स्तो॒ता स्यात्त्वाव᳚तो म॒घोनः᳚ ।
प्रेदु᳚ हरिवः श्रु॒तस्य᳚ ॥
प्रेदु᳚ हरिवः श्रु॒तस्य᳚ ॥
पदपाठः (Word-by-word)
रे॒वान् । इत् । रे॒वतः᳚ । स्तो॒ता । स्यात् । त्वा॑व᳚तः । म॒घोनः᳚ ।
प्र । इत् । ऊं॒ इति᳚ । ह॒रि॒॑वः॒ । श्रु॒तस्य᳚ ॥
प्र । इत् । ऊं॒ इति᳚ । ह॒रि॒॑वः॒ । श्रु॒तस्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे हरिवः हरिवन् मतुवसोरुरिति नकारस्य रुत्वम् । हरी अश्वौ तद्वन्निन्द्र रेवतोरयिमतः बहुधनोपेतस्य अतएव स्तोता रेवान् स्यात् रयिमान् भवेत् इच्छब्दोवधारणे धनवान् भवेदेव नतु दारिद्भ्यंप्राप्नोति । उक्तमेवार्थं कैमुतिकन्यायेन द्रढयति त्वावतः त्वत्सदृशस्य युष्मदस्मद्भ्यांछन्दसिसादृश्यमुपसंख्यानमितिवतुप् । मघोनोधनवतोधनाढ्यस्य श्रुतस्य सर्वत्रप्रख्यातस्य अन्यस्यापि स्तोता प्रेदु स्यादित्यनुषज्यते प्रस्यात् प्र्भवेदेव नतु निहीयते किमुवक्तव्यं तवस्तोता धनवान् भवेदिति ॥ १३ ॥