श्रवणम्

9.67.1
त्वं सो᳚मासि धार॒युर्म॒न्द्र ओजि᳚ष्ठो अध्व॒रे ।
पव᳚स्व मंह॒यद्र᳚यिः ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि᳚ष्ठः । अ॒ध्व॒रे ।
पव᳚स्व । मं॒ह॒यत्॑र᳚यिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमाभिषूयमाण पवमान मन्द्रः मोदयितृतमः ओजिष्ठः ओजस्वितमस्त्वं अध्वरे हिं- सारहितेस्मदीयेयज्ञे धारयुः अभिषवणधाराकामोसि भवसि । अतस्त्वं मंहयद्रयिः स्तोतृभ्यः प्रदीयमानधनः सन् पवस्व द्रोणकलशे ग्रहादिषु दशापवित्रेण पूतोभव । यद्वा धारयुः तद्वद- र्थेभाष्यतइति सत्वर्थीयोयुः सः हे सोम त्वं धारावानिव । ततः पवस्वेति संबन्धः ॥ १ ॥