उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन᳚ च ।
मां पु᳚नीहि वि॒श्वतः᳚ ॥
मां पु᳚नीहि वि॒श्वतः᳚ ॥
पदपाठः (Word-by-word)
उ॒भाभ्या᳚म् । दे॒व॒ । स॒वि॒तः॒ । प॒वित्रे᳚ण । स॒वेन᳚ । च॒ ।
माम् । पु॒नी॒हि॒ । वि॒श्वतः᳚ ॥
माम् । पु॒नी॒हि॒ । वि॒श्वतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सवितः सर्वस्य प्रेरक हे देव द्योतमान सोम त्वं पवित्रेण पपशोधकेन त्वदीयेन तेजसा सवेन सोमाभिषवेनच एताभ्यामुभाभ्यां विश्वतः सर्वतोमां पुनीहि पूतं कुरु ॥ २५ ॥