श्रवणम्

9.67.8
क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा᳚य पू॒र्व्यः ।
आ॒युः प᳚वत आ॒यवे᳚ ॥
▶ पदपाठः (Word-by-word)
क॒कु॒हः । सो॒म्यः । रसः᳚ । इन्दुः᳚ । इन्द्रा᳚य । पू॒र्व्यः ।
आ॒युः । प॒व॒ते॒ । आ॒यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ककुहः सोमः सर्वकर्मकारयितृत्वेन सर्वेषां समुच्छ्रितः अतिशयितोभवति । सोयं पूर्व्यः पूर्वैः कृतोभिषुतः पूर्वं प्रातःकाले कृतोवा आयुः इन्द्रं प्रति गंता इन्दुः पात्रेषु क्षरन् सोम्यः म- येचेति यः प्रत्ययः सोममयोरसः आयवे सर्वत्रगन्त्रे इन्द्राय पवते कलशेषु पवित्रेण पूतोभवति । यद्वा इन्द्रार्थम्भिगच्छति । प्वतिर्गतिकर्मा ॥ ८ ॥