ग्राव्णा᳚ तु॒न्नो अ॒भिष्टु᳚तः प॒वित्रं᳚ सोम गच्छसि ।
दध᳚त्स्तो॒त्रे सु॒वीर्य᳚म् ॥
दध᳚त्स्तो॒त्रे सु॒वीर्य᳚म् ॥
पदपाठः (Word-by-word)
ग्राव्णा᳚ । तु॒न्नः । अ॒भि॑स्तु᳚तः । प॒वित्र᳚म् । सो॒म॒ । ग॒च्छ॒सि॒ ।
दध᳚त् । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
दध᳚त् । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं ग्राव्णातुन्नः अभिपीडितोभिषुतस्त्वं स्तोतृभिरभिष्टुतः सन् पवित्रं गच्छसि प्राप्नोषि । किंकुर्वन् स्तोत्रे स्तोत्रकारिणे जनाय सुवीर्यं शोभनवीर्योपेतं धनादिकं दधत् विधदत् प्रयच्छन् ॥ १९ ॥