पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि᳚भि॒ः सम्भृ᳚तं॒ रस᳚म् ।
तस्मै॒ सर᳚स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ॥
तस्मै॒ सर᳚स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ॥
पदपाठः (Word-by-word)
पा॒व॒मा॒नीः । यः । अ॒धि॒॑एति᳚ । ऋषि᳚॑भिः । सम्॑भृ᳚तम् । रस᳚म् ।
तस्मै᳚ । सर᳚स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु᳚ । उ॒द॒कम् ॥
तस्मै᳚ । सर᳚स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु᳚ । उ॒द॒कम् ॥
सायणभाष्यम् (Sayana Commentary)
योब्राह्मणः पावमानीः पवमानदेवताकाऋचः तदात्मकं ऋषिभिर्मधुच्छन्दआदिभिः सं- भृतंरसं वेदसारं सूक्तसंघं अध्येति अधीते । तस्मै पवमानाध्ययनं कुर्वते जनाय सरस्वतीसर्व- त्रसरणवती वाग्देवता क्षीरं यज्ञसाधनभूतं पयः सर्पिस्तादृशं घृतं मधु मदकरमुदकं सोमं दुहे स्वयमेव दोग्धि एनं नरं यागादिपरं वेदशास्त्रविदं करोबीत्यर्थः । दुहप्रपूरणे कर्मकर्तरि नदुह- स्नुनमांयक् चिणावितियकः प्रतिषेधः । लोपस्तआत्मनेपदेष्विति तलोपः ॥ ३२ ॥
चतुर्थेनुवाके अष्टादशसूक्तानि तत्र प्रदेवमितिदशर्चं प्रथमं सूक्तं भलंदनपुत्रस्य वत्सप्रेरार्षं पवमानसोमदेवताकं दशमी त्रिष्टुप् शिष्टाजगत्यः । तथाचानुक्रम्यते—प्रदेवंदशवत्सप्रिर्भालंदनः त्रिष्टुबन्तंहेति । गतोविनियोगः ।