इन्दु᳚र्हिन्वा॒नो अ᳚र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ ।
हरि॒र्वाज᳚मचिक्रदत् ॥
हरि॒र्वाज᳚मचिक्रदत् ॥
पदपाठः (Word-by-word)
इन्दुः᳚ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । ति॒रः । वारा᳚णि । अ॒व्यया᳚ ।
हरिः᳚ । वाज᳚म् । अ॒चि॒क्र॒द॒त् ॥
हरिः᳚ । वाज᳚म् । अ॒चि॒क्र॒द॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हिन्वानः ग्रावभिः प्रेर्यमाणोभिषूयमाणइन्दुः सोमः अव्यया अविमयानि अवीनां स्व भू- तानि वाराणि बालानि पवित्राणीत्यर्थः । तानि तिरः तिरस्कृत्य व्यवधाय अर्षति गच्छति प्रभूतं निर्गच्छतीत्यर्थः । सोमं हरिर्हरितवर्णः सोमः वाजमन्नं अचिक्रदत् शब्दयति । त्वया सह इन्द्रमहमाह्वयामीत्यर्थः ॥ ४ ॥