श्रवणम्

9.67.16
पव᳚स्व सोम म॒न्दय॒न्निन्द्रा᳚य॒ मधु᳚मत्तमः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । म॒न्दय᳚न् । इन्द्रा᳚य । मधु᳚मत्॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम मधुमत्तमः अतिशयेनमधुररसवांस्त्वं मन्दयन् मादयिता भवन् । यद्वा इन्द्राय क्रियाग्रहणंकर्तव्यमिति संप्रदानं इन्द्रं मोदमानः सन् पवस्व इन्द्रार्थमागच्छ ॥ १६ ॥