श्रवणम्

9.67.20
ए॒ष तु॒न्नो अ॒भिष्टु᳚तः प॒वित्र॒मति᳚ गाहते ।
र॒क्षो॒हा वार᳚म॒व्यय᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । तु॒न्नः । अ॒भि॑स्तु᳚तः । प॒वित्र᳚म् । अति᳚ । गा॒ह॒ते॒ ।
र॒क्षः॒॑हा । वार᳚म् । अ॒व्यय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुन्नाः तुदव्यथने ग्रावभिरभिव्यथितः सुतः अतएव सर्वैरभिष्टुतः एषोस्मदीयः सोमोर क्षोहा कर्मविघ्नकारिणां रक्षसां पापानांच हन्ता भवत् । अव्ययमविमयं अव्यवयवभूतं वारं वालं तेनकृतं पवित्रं दशापवित्रमति अतिक्रम्य गाहते द्रोणकलशं प्रविशति ॥ २० ॥