त्वं सु॒तो नृ॒माद᳚नो दध॒न्वान्म᳚त्स॒रिन्त᳚मः ।
इन्द्रा᳚य सू॒रिरन्ध᳚सा ॥
इन्द्रा᳚य सू॒रिरन्ध᳚सा ॥
पदपाठः (Word-by-word)
त्वम् । सु॒तः । नृ॒॑माद᳚नः । द॒ध॒न्वान् । म॒त्स॒रिन्॑त᳚मः ।
इन्द्रा᳚य । सू॒रिः । अन्ध᳚सा ॥
इन्द्रा᳚य । सू॒रिः । अन्ध᳚सा ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम नृमादनः नृणां कर्मणांनेतॄणामृत्विजां मादयिता अतएव दधन्वान् तेभ्योधनानि धारयन् प्रयच्छ्न् । यद्वा यज्ञस्य धारकः सूरिः प्राज्ञः सुतोस्माभिरभिषुतस्त्वं अन्धसा हवी- रूपेणान्नेन सहेन्द्राय मत्सरिन्तमः तस्यातिशयेन मदकारी भव । नाद्घस्येति नकारः ॥ २ ॥