श्रवणम्

9.67.12
अ॒यं त᳚ आघृणे सु॒तो घृ॒तं न प᳚वते॒ शुचि᳚ ।
आ भ᳚क्षत्क॒न्या᳚सु नः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि᳚ ।
आ । भ॒क्ष॒त् । क॒न्या᳚सु । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आघृणे घृक्षरणदीप्त्योः सर्वतोदीप्यमान पवमान पूषन् वा ते त्वदर्थं सुतोभिषुतोयं सो- मः पवते त्वदभिमुखमागच्छति । यद्वा त्वदर्थं पात्रेषु प्वित्रेण पूतो भवति क्षरतिवा । तत्रदृष्टा- न्तः—घृतंन शुचि शुद्धं घृतं यथा त्वां प्राप्नोति तद्वत् ततस्त्वमभिलषितानि अस्माकं देहीति ॥ १२ ॥