उप᳚ प्रि॒यं पनि᳚प्नतं॒ युवा᳚नमाहुती॒वृध᳚म् ।
अग᳚न्म॒ बिभ्र᳚तो॒ नमः᳚ ॥
अग᳚न्म॒ बिभ्र᳚तो॒ नमः᳚ ॥
पदपाठः (Word-by-word)
उप᳚ । प्रि॒यम् । पनि᳚प्नतम् । युवा᳚नम् । आ॒हु॒ति॒॑वृध᳚म् ।
अग᳚न्म । बिभ्र᳚तः । नमः᳚ ॥
अग᳚न्म । बिभ्र᳚तः । नमः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
प्रियं सर्वस्य प्रीणयितारं पनिप्नतमत्यन्तं शब्दायमानं युवानं तरुणमाहुतीवृधं आहुतिभिर्व- र्धनीयं पवमानं वयं नमोहविर्नमस्कारंवा बिभ्रतोधारयन्तःसन्तःउपागन्म उपगच्छेम । गमेर्लुङि मंत्रेघसेतिच्लेर्लुकि सति म्वोश्चेतिनकारः । पनिप्रतं पनेःस्तुत्यर्थस्य यङ्लुकिरूपं दाधर्तिदर्धर्ति- इतिसूत्रे इतिकरणस्य प्रदर्शनार्थत्वादत्राभ्यासस्य निगागमउपधालोपश्च निपात्यते ॥ २९ ॥