अ॒वि॒ता नो᳚ अ॒जाश्व᳚ः पू॒षा याम᳚नियामनि ।
आ भ᳚क्षत्क॒न्या᳚सु नः ॥
आ भ᳚क्षत्क॒न्या᳚सु नः ॥
पदपाठः (Word-by-word)
अ॒वि॒ता । नः॒ । अ॒ज॑अ᳚श्वः । पू॒षा । याम᳚नि॑यामनि ।
आ । भ॒क्ष॒त् । क॒न्या᳚सु । नः॒ ॥
आ । भ॒क्ष॒त् । क॒न्या᳚सु । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अजाश्वः अजाःपूष्ण इत्युक्तत्वादजाएवअश्वा वाहनानि यस्य सतथोक्तः सपूषा एतन्नाम- कोदेवः यामनियामनि सर्वस्मिन् गमने भौमदिव्यलक्षणे नोस्माकं अविता पालयिता भवतु । किंच कन्यासु कमनीयासु अभिमतासु स्त्रीषु नोस्मानाभक्षत् आभजतां अस्माकं कन्याः प्रयच्छ- त्वित्यर्थः । भजेःसेवार्थाल्लेटि सिपि अडागमे रूपम् । यद्वा अजाश्वः अजवाहनः पूषा सर्वस्य पोषयिता सोमः यामनियामनि याते प्राप्यते देवैरत्रेति यामोयज्ञः तत्र यज्ञे नोस्माकं अविता रक्षिता भवतु । तथा कन्यासु स्त्रीष्विष्टासु अस्मानाप्रापयतु ॥ १० ॥