श्रवणम्

9.67.15
परि॒ प्र सो᳚म ते॒ रसो॑स᳚र्जि क॒लशे᳚ सु॒तः ।
श्ये॒नो न त॒क्तो अ᳚र्षति ॥
▶ पदपाठः (Word-by-word)
परि᳚ । प्र । सो॒म॒ । ते॒ । रसः᳚ । अस᳚र्जि । क॒लशे᳚ । सु॒तः ।
श्ये॒नः । न । त॒क्तः । अ॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम कलशे द्रोणाभिधाने सुतोभिषुतस्ते तव रसः परिप्रासर्जि परिपोरसृज्यते परि- तोग्रहेषु चमसेषु च प्रसृष्टोविभक्तोभवति । कथमिव श्येनोनतक्तः तकिर्गतिकर्मा गमनशीलः श्येनः पक्षीयथा सर्वत्रार्षति गच्छति तद्वत् यद्वा यथा श्येनः सर्वतोगन्ता तद्वत्तक्तः पात्रेषु गतः सोमः अर्षति इन्द्रादिदेवानागच्छत् । अर्तेर्लेटि सिपि रूपम् । पूर्वमृषीगतावित्यस्मात् लटि शपि रूपम् ॥ १५ ॥