पु॒नन्तु॒ मां दे᳚वज॒नाः पु॒नन्तु॒ वस᳚वो धि॒या ।
विश्वे᳚ देवाः पुनी॒त मा॒ जात᳚वेदः पुनी॒हि मा᳚ ॥
विश्वे᳚ देवाः पुनी॒त मा॒ जात᳚वेदः पुनी॒हि मा᳚ ॥
पदपाठः (Word-by-word)
पु॒नन्तु᳚ । माम् । दे॒व॒॑ज॒नाः । पु॒नन्तु᳚ । वस᳚वः । धि॒या ।
विश्वे᳚ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात᳚॑वेदः । पु॒नी॒हि । मा॒ ॥
विश्वे᳚ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात᳚॑वेदः । पु॒नी॒हि । मा॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवजनाः देवानां जनःप्रादुर्भावोयेषां यज्ञेष्विते देवजनायजमानाः । यद्वा इन्द्रादिदेवगणाः मां पुनन्तु परिपूतं कुर्वन्तु । तथा वसवः वासकादेवाः धिया आत्मीयेनकर्मणा मां पुनन्तु । अथवा प्रत्यक्षः हे विश्वदेवाः सर्वेदेवाः मा मां पुनीत पूतं कुरुत । हे जातवेदः जातानि वेत्तीति यद्वा जातप्रज्ञ अग्ने मा मां पुनीहि ॥ २७ ॥