असृ᳚ग्रन्दे॒ववी᳚तये वाज॒यन्तो॒ रथा᳚ इव ॥
पदपाठः (Word-by-word)
असृ᳚ग्रन् । दे॒व॑वी᳚तये । वा॒ज॒॑यन्तः᳚ । रथाः᳚॑इव ॥
सायणभाष्यम् (Sayana Commentary)
एतेणोषुताः सोमाः वाजयन्तः सन्तः देववीतये देवानांपानाय असृग्रन् विसृज्यंते ऋ- त्विग्भिः प्रदीयन्ते । तत्रदृष्टान्तः—रथाइव वाजयन्तः शत्रुधनानि बलानिवा स्वामिनइच्छन्तो रथा देववीतये देवानांगमनाय यथा विसृज्यन्ते तद्वत् ॥ १७ ॥