श्रवणम्

9.67.5
इन्दो॒ व्यव्य᳚मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ᳚गा ।
वि वाजा᳚न्त्सोम॒ गोम᳚तः ॥
▶ पदपाठः (Word-by-word)
इन्दो॒ इति᳚ । वि । अव्य᳚म् । अ॒र्ष॒सि॒ । वि । श्रवां᳚सि । वि । सौभ᳚गा ।
वि । वाजा᳚न् । सो॒म॒ । गो॑म᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम अव्यं अविवालेभवं पवित्रं व्यर्षसि विविघं धाराभिर्गच्छसि । किंच श्रवांसि हवीरूपाण्यन्नानिच विगच्छसि । तथा सौभगा सुभगस्य भावः सौभगं सुभगशब्दः उद्गात्रादिषु पठ्यते । तस्य उत्तरपदवृद्धिर्नेष्यते । सौभगानि धनानि विविधं प्राप्नोति । तथा हे सोम गोमतः पशुमन्ति वाजान् बलानिच विविधंप्राप्नुहि तानि सर्वाण्यस्माकं प्रापयेत्यभिप्रायः ॥ ५ ॥