आ न᳚ इन्दो शत॒ग्विनं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् ।
भरा᳚ सोम सह॒स्रिण᳚म् ॥
भरा᳚ सोम सह॒स्रिण᳚म् ॥
पदपाठः (Word-by-word)
आ । नः॒ । इ॒न्दो॒ इति᳚ । श॒त॒॑ग्विन᳚म् । र॒यिम् । गो॑म᳚न्तम् । अ॒श्विन᳚म् ।
भर᳚ । सो॒म॒ । स॒ह॒स्रिण᳚म् ॥
भर᳚ । सो॒म॒ । स॒ह॒स्रिण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो पात्रेषु क्षरन् हे सोम नोस्मभ्यमाभर संपादय देहि । किमिति उच्यते शतग्विनं शतंगावोयस्य सशतगुः तद्वन्तं गोमन्तं प्रशस्तपशुमन्तं अश्विनं अश्वयुक्तं सहस्रिणं सहस्रसंख्याकं रयिं धनं पुत्रं वा आभर ॥ ६ ॥