ते सु॒तासो᳚ म॒दिन्त᳚माः शु॒क्रा वा॒युम᳚सृक्षत ॥
पदपाठः (Word-by-word)
ते । सु॒तासः᳚ । म॒दिन्॑त᳚माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
मदिन्तमः अतिशयेन मादयितारः शुक्राः दीप्यमानाः सुतासः अभिशुतास्तेसोमाः वायुं शब्द मसृक्षतासृजन्नकार्षुः । यद्वा वायुमेवसोमपानार्थमसृजन् सोमेषु सत्सु वायुस्तत्पानार्थमागच्छ- ति ॥ १८ ॥