श्रवणम्

9.67.11
अ॒यं सोमः᳚ कप॒र्दिने᳚ घृ॒तं न प᳚वते॒ मधु᳚ ।
आ भ᳚क्षत्क॒न्या᳚सु नः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सोमः᳚ । क॒प॒र्दिने᳚ । घृ॒तम् । न । प॒व॒ते॒ । मधु᳚ ।
आ । भ॒क्ष॒त् । क॒न्या᳚सु । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कपर्दिने कल्याणमुकुटवते सोमाय पूष्णेवा तदर्थमयं मादयिताभिषुतोस्मदीयः सोमः पवते च गच्छति तं प्राप्नोति । तत्रदृष्टान्तः—घृतंन मधु मादकं हवीरूपं घृतं यथा सोमं पूषणं वा ग- च्छति तद्वत् । ततः सकन्यास्वस्मानागमयत् ॥ ११ ॥