प्र प्या᳚यस्व॒ प्र स्य᳚न्दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभि᳚ः ।
दे॒वेभ्य᳚ उत्त॒मं ह॒विः ॥
दे॒वेभ्य᳚ उत्त॒मं ह॒विः ॥
पदपाठः (Word-by-word)
प्र । प्या॒य॒स्व॒ । प्र । स्य॒न्द॒स्व॒ । सोम᳚ । विश्वे᳚भिः । अं॒शु॑भिः᳚ ।
दे॒वेभ्यः᳚ । उ॒त्॑त॒मम् । ह॒विः ॥
दे॒वेभ्यः᳚ । उ॒त्॑त॒मम् । ह॒विः ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम प्रप्यायस्व अस्मान् प्रकर्षेण वर्धय । यद्वा देवान् सोमेन वर्धय । किंच विश्वेभिरंशुभिः सर्वैस्त्वदीयैरंशुभिः देवेभ्योदेवार्थमुत्तमं प्रशस्ततमंहविः सोमरूपं प्रस्यंदस्व कलशादीन् प्रति प्रस्रव प्रयच्छेति यावत् ॥ २८ ॥ अग्नीषोमप्रणयने उपप्रियमित्येषा । सूत्रितंच—उपप्रियंपनिप्नतमित्यर्धर्चआरमेदिति ।