त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि᳚ष्ठैः सोम॒ धाम᳚भिः ।
अग्ने॒ दक्षै᳚ः पुनीहि नः ॥
अग्ने॒ दक्षै᳚ः पुनीहि नः ॥
पदपाठः (Word-by-word)
त्रि॒॑भिः । त्वम् । दे॒व॒ । स॒वि॒तः॒ । वर्षि᳚ष्ठैः । सो॒म॒ । धाम᳚॑भिः ।
अग्ने᳚ । दक्षैः᳚ । पु॒नी॒हि॒ । नः॒ ॥
अग्ने᳚ । दक्षैः᳚ । पु॒नी॒हि॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देव स्तुत्य दीप्यमान वा हे सवितः सर्वस्य स्वस्वकर्मणि चोदयितः हे सोम पवमान- गुणविणविशिष्ट हे अग्ने त्वं वर्षिष्ठैः वृद्धतमैः अतएव दक्षैः सामर्थ्यवद्भिस्त्रिभिर्धामभिः शरीरै- रग्निवायुसूर्यात्मकैस्त्रिभिः शरीरैः नोस्मान्पुनीहि परिशुद्धान् कुरु ॥ २६ ॥