पव᳚मानास॒ इन्द᳚वस्ति॒रः प॒वित्र᳚मा॒शवः᳚ ।
इन्द्रं॒ यामे᳚भिराशत ॥
इन्द्रं॒ यामे᳚भिराशत ॥
पदपाठः (Word-by-word)
पव᳚मानासः । इन्द᳚वः । ति॒रः । प॒वित्र᳚म् । आ॒शवः᳚ ।
इन्द्र᳚म् । यामे᳚भिः । आ॒श॒त॒ ॥
इन्द्र᳚म् । यामे᳚भिः । आ॒श॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
पवित्रमूर्णास्तुकेननिर्मितं दशापवित्रं तिरस्कृत्य व्यवधायकं कृत्वा पवमानासः कलशं प्र- ति बहुधाराः क्षरन्तः आशावः क्षिप्रं मदकारिणश्चमसादीन् व्याप्नुवन्तोवा इन्दवः सोमाः यामे- भिः स्वीयैर्गमनैः इन्द्रमाशत व्याप्नुवन्ति ॥ ७ ॥