आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते ।
अ॒भि द्रोणा॒ कनि᳚क्रदत् ॥
अ॒भि द्रोणा॒ कनि᳚क्रदत् ॥
पदपाठः (Word-by-word)
आ । क॒लशे᳚षु । धा॒व॒ति॒ । श्ये॒नः । वर्म᳚ । वि । गा॒ह॒ते॒ ।
अ॒भि । द्रोणा᳚ । कनि᳚क्रदत् ॥
अ॒भि । द्रोणा᳚ । कनि᳚क्रदत् ॥
सायणभाष्यम् (Sayana Commentary)
ऋत्विग्भिरभिषिच्यमानः कश्चित्सोमः कलशेषु सोमाधारषु द्रोणकलशेषु आधावति सर्व- तोगच्छति श्येनः लुप्तोपममेतत् । यथा श्येनोवर्म वरणीयं कुलायं विगाहते प्रविशति तद्वत् । कनिक्रदत् अत्यन्तं शब्दं कुर्वन् द्रोणा द्रोणकलशानभिगच्छतिच । यद्वा द्रोणाधवनीयपूतभृत् संज्ञकाभिप्रायं एकः सिच्यमानः सोमोद्रोणं प्रति शब्दायमानः पश्चात् प्रथमंगच्छति । ततः पात्रद्वयमिति ॥ १४ ॥