श्रवणम्

9.67.24
यत्ते᳚ प॒वित्र᳚मर्चि॒वदग्ने॒ तेन᳚ पुनीहि नः ।
ब्र॒ह्म॒स॒वैः पु᳚नीहि नः ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । प॒वित्र᳚म् । अ॒र्चि॒॑वत् । अग्ने᳚ । तेन᳚ । पु॒नी॒हि॒ । नः॒ ।
ब्र॒ह्म॒॑स॒वैः । पु॒नी॒हि॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पवित्रं शोधकमर्चिवदर्चिमत् छन्दसीरइतिमतुपोवत्वं सौरादितेजोयुक्तं ते त्वदीयं यत्तेजः विद्यते तेन स्वीयेनैव तेजसा नोस्मान् पुनीहि पूतान् कुरु । किंच ब्रह्मसवैः ब्राह्मणकर्तृ- कसोमाभिषवैः यद्वा ब्रह्म सोमः तस्याभिषवैः नोस्मान् पुनीहि ॥ २४ ॥