त्वं सु᳚ष्वा॒णो अद्रि᳚भिर॒भ्य᳚र्ष॒ कनि᳚क्रदत् ।
द्यु॒मन्तं॒ शुष्म᳚मुत्त॒मम् ॥
द्यु॒मन्तं॒ शुष्म᳚मुत्त॒मम् ॥
पदपाठः (Word-by-word)
त्वम् । सु॒स्वा॒नः । अद्रि᳚॑भिः । अ॒भि । अ॒र्ष॒ । कनि᳚क्रदत् ।
द्यु॒॑मन्त᳚म् । शुष्म᳚म् । उ॒त्॑त॒मम् ॥
द्यु॒॑मन्त᳚म् । शुष्म᳚म् । उ॒त्॑त॒मम् ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमानसोम अद्रिभिर्ग्रावभिः सुष्वाणः सुन्वानः अभिषूयमाणस्त्वं कनिक्रदत् भृशं शब्दंकुर्वन् अभ्यर्ष कलशं पात्राणिचाभिगच्छ । तथा द्युमन्तं दीप्तियुक्तं उत्तमं शुष्मं शत्रूणां शोषकं बलंच प्राप्नुहि । यद्वा एकवाक्यतया योजनीयः । स्तूयमानस्त्वं बलमभिगच्छेति । कदिक्रदिआह्वाने । क्रदेर्यङ्लुकि तलोपः । अद्भ्यासस्यनिगागमश्च दाधर्तिदर्धर्तीतिसूत्रेण सर्वं निपात्यते । तस्माच्छतृप्रत्ययः । अभ्यस्तानामादिरितिस्वरः ॥ ३ ॥