श्रवणम्

9.65.10
वृषा᳚ पवस्व॒ धार᳚या म॒रुत्व᳚ते च मत्स॒रः ।
विश्वा॒ दधा᳚न॒ ओज᳚सा ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । प॒व॒स्व॒ । धार᳚या । म॒रुत्व᳚ते । च॒ । म॒त्स॒रः ।
विश्वा᳚ । दधा᳚नः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं वृषा स्तोतॄणामभिमतफलस्य वर्षकः सन् धारया त्वदीयया पवस्व द्रोणक- लशमागच्छ । पवतिर्गतिकर्मा आगतस्त्वं यदा अस्माभिरिन्द्राय दीयसे तदा मरुत्वते सहा- यामरुतोयस्यसन्ति तस्मै इन्द्राय मत्सरोमदकरश्च भव । कीदृशः विश्वा विश्वानि सर्वाणि व्याप्तानि वा धनानि ओजसा आत्मीयेन बलेन युक्तःसन् स्तोतृभ्यस्तानि दधानः प्रयच्छन् त्वं मादयिता भवेति समन्वयः ॥ १० ॥