आ न᳚ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् ।
वहा॒ भग᳚त्तिमू॒तये᳚ ॥
वहा॒ भग᳚त्तिमू॒तये᳚ ॥
पदपाठः (Word-by-word)
आ । नः॒ । इ॒न्दो॒ इति᳚ । श॒त॒॑ग्विन᳚म् । गवा᳚म् । पोष᳚म् । सु॒॑अश्व्य᳚म् ।
वह᳚ । भग᳚त्तिम् । ऊ॒तये᳚ ॥
वह᳚ । भग᳚त्तिम् । ऊ॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो पात्रेषु क्षरणशील दीपनशीलवा हे सोम शतग्विनं शतसहस्रसंख्याभिर्गोभिर्युक्तं गवां पोषं गवादीनां पुष्टिवर्धनं स्वश्व्यं शोभनाश्वसंगसहितं भगत्तिं भगदत्तिं भजनीयधनदानं च ऊतये रक्षणाय नोस्माकं आवह प्रापय गवादींश्च । तेषांच वृद्धिं प्रयच्छेत्यर्थः ॥ १७ ॥