राजा᳚ मे॒धाभि᳚रीयते॒ पव᳚मानो म॒नावधि᳚ ।
अ॒न्तरि᳚क्षेण॒ यात᳚वे ॥
अ॒न्तरि᳚क्षेण॒ यात᳚वे ॥
पदपाठः (Word-by-word)
राजा᳚ । मे॒धाभिः᳚ । ई॒य॒ते॒ । पव᳚मानः । म॒नौ । अधि᳚ ।
अ॒न्तरि᳚क्षेण । यात᳚वे ॥
अ॒न्तरि᳚क्षेण । यात᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
मनौ मनुष्ये यागं कुर्वाणे सति । यद्वा मनावधि मनुर्मन्तव्योयज्ञः तस्मिन् पवमानः पूयमानः पुनानोवा राजा राजशब्देन सोमोभिधीयते । सोमंराजानमक्रीणन्नित्यादिषु दृष्ट- त्वात् । सराजा मेधाभिः स्तुतिभिः सह ईयते गच्छति । किमर्थं अन्तरिक्षेण आकाशमार्गेण द्रोणकलशं प्रति यातवे यातुं द्रोणाभिगमनकालेहि स्तोतृभिः स्तूयते खलु ॥ १६ ॥