य आ᳚र्जी॒केषु॒ कृत्व᳚सु॒ ये मध्ये᳚ प॒स्त्या᳚नाम् ।
ये वा॒ जने᳚षु प॒ञ्चसु᳚ ॥
ये वा॒ जने᳚षु प॒ञ्चसु᳚ ॥
पदपाठः (Word-by-word)
ये । आ॒र्जी॒केषु᳚ । कृत्व᳚॑सु । ये । मध्ये᳚ । प॒स्त्या᳚नाम् ।
ये । वा॒ । जने᳚षु । प॒ञ्च॑सु᳚ ॥
ये । वा॒ । जने᳚षु । प॒ञ्च॑सु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
येवा सोमा आर्जीकेषु ऋजीकानामदूरभवाः आजिंकादेशाः तेषु तथा कृत्वसु कृत्वा- नइति देशाभिधनं नेषु कर्मवत्सु देशेषु किंच पस्त्यानां सरस्वत्यादीनां नदीनां मध्ये समी- पेच ये सोमाः अभिषूयन्ते । ऋषयोवैअरस्वत्यांसत्रमासतेत्यादिषु नदीतरे यज्ञकरणस्य श्रवणात् । किंच जनेषु पंचसु निषादपंचमाश्चत्वारोवर्णाः पंचजनाः तेषुच येवा सोमा अभिषुतास्तेसोमाः अस्माकमभिमतं प्रयच्छन्त्वित्युत्तरेणान्वयः ॥ २३ ॥