प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त᳚यः ।
श्री॒णा॒ना अ॒प्सु मृ᳚ञ्जत ॥
श्री॒णा॒ना अ॒प्सु मृ᳚ञ्जत ॥
पदपाठः (Word-by-word)
प्र । शु॒क्रासः᳚ । व॒यः॒॑जुवः᳚ । हि॒न्वा॒नासः᳚ । न । सप्त᳚यः ।
श्री॒णा॒नाः । अ॒प्॑सु । मृ॒ञ्ज॒त॒ ॥
श्री॒णा॒नाः । अ॒प्॑सु । मृ॒ञ्ज॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
शुक्रासः शुक्रा दीप्यमाना वयोजुवः अन्नंप्रेरयन्तः यद्यदपेक्ष्य देवेभ्यः सोमं प्रयच्छ- न्ति तत्तदपेक्षितं सोमोददाति । ते सोमाः श्रीणानाः दधिक्षीरादिभिः श्रीयमाणाःसन्तः अप्सु वसतीवरीष्वेकधनासुच । मृंजत ऋत्विग्भिः प्रमृज्यन्ते शोध्यन्ते । तत्रदृष्टान्तः—हि- न्वानासोन सप्तयः अश्वनामैतत् । यथाश्वाः हिन्वानासो हिन्वानाः सादिभिः प्रेर्यमाणाः सन्तः अप्सु तैरेव प्रशोधिताभवन्ति तद्वत् ॥ २६ ॥