पव᳚मान रु॒चारु᳚चा दे॒वो दे॒वेभ्य॒स्परि᳚ ।
विश्वा॒ वसू॒न्या वि᳚श ॥
विश्वा॒ वसू॒न्या वि᳚श ॥
पदपाठः (Word-by-word)
पव᳚मान । रु॒चा॑रु᳚चा । दे॒वः । दे॒वेभ्यः᳚ । परि᳚ ।
विश्वा᳚ । वसू᳚नि । आ । वि॒श॒ ॥
विश्वा᳚ । वसू᳚नि । आ । वि॒श॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान दशापवित्रेण पूयमान यद्वा पुनान शुद्ध सोम रुचारुचा रुचदीप्तौ सर्वेण ते- जसा देवोदीप्यमानस्त्वं देवेभ्यः परि देवेभ्यः सकाशात् विश्वा व्याप्तानि सर्वाणि बहूनि वसू- नि धनानि अस्माकमाविश प्रापय । यद्वा देवेभ्यस्त्वदर्थं सर्वाणि वसूनि निवासस्थानानि ग्रहादीनि आविश समन्तात्प्रविश ॥ २ ॥