श्रवणम्

9.65.13
आ न᳚ इन्दो म॒हीमिषं॒ पव᳚स्व वि॒श्वद᳚र्शतः ।
अ॒स्मभ्यं᳚ सोम गातु॒वित् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । इ॒न्दो॒ इति᳚ । म॒हीम् । इष᳚म् । पव᳚स्व । वि॒श्व॑द᳚र्शतः ।
अ॒स्मभ्य᳚म् । सो॒म॒ । गा॒तु॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो क्षरणशील दीपनशील हे सोम विशदर्शतः विश्वैः सर्वैः दर्शनीयः यद्वा विश्वं सर्वं वस्तुजातं दृश्यते ज्ञाप्यतेनेनेति सविश्वस्य प्रकाशकइत्यर्थः । तादृशस्त्वं महीमिषं मह- त्प्रभूतमन्नं नोस्मभ्यमापवस्व आगमय प्रयच्छेत्यर्थः । किंच हे सोमाभिषूयमाण पवमान अस्मभ्यं गातुवित् स्वर्गमार्गस्य लंभयिता ज्ञापयिता भव ॥ १३ ॥