श्रवणम्

9.65.19
अर्षा᳚ सोम द्यु॒मत्त᳚मो॒॑भि द्रोणा᳚नि॒ रोरु᳚वत् ।
सीद᳚ञ्छ्ये॒नो न योनि॒मा ॥
▶ पदपाठः (Word-by-word)
अर्ष᳚ । सो॒म॒ । द्यु॒मत्॑त᳚मः । अ॒भि । द्रोणा᳚नि । रोरु᳚वत् ।
सीद᳚न् । श्ये॒नः । न । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अभिषूयमाण पवमान द्युमत्तमः अतिशयेन दीप्तिमांस्त्वं द्रोणानि प्रयोगबाहु- ल्यापेक्षमेतद्बहुवचनं द्रोणानभिलक्षीकृत्य रोरुवत् पुनःपुनर्भृशं वा शब्दंकुर्वन् अर्ष ताना- गच्छ दशापवित्रमध्यान्निर्गतः सोमः अविच्छिन्नधारया द्रोणकलशे पतन् शब्दंकरोति खलु । तत्रदृष्टान्तः—शयेनोन यथाआसीदन् सर्वतोगच्छन् श्येनः शंसनीयगतिः पक्षी योनिं स्वस्थानं कुलायंप्रति भृशंशब्दायमानःसन् आगच्छति तद्वत् ॥ १९ ॥